Wednesday, September 24, 2014

નવરાત્રિમાં સંસ્કૃત ગરબા.........


त्वां विना श्याम अहम् एकाकी भवामि



(राग ः तारा विना श्याम मने...)
त्वां विना श्याम अहम् एकाकी भवामि
रासक्रीडायै आगम्यताम् (२)
गरबाक्रीडन्त्यः गोप्यः हो हो
शून्याः गोकुलस्य वीथ्यः
शून्यासु नगरीषु गोकुलस्य वीथिषु (२)
रासक्रीडायै आगम्यताम्... (२)
 त्वां विना श्याम् एकाकी भवामि...
रासक्रीडायै आगम्यताम्... (२)
शरदरात्री इयम् शोभना हो हो
चन्द्रिका उदिता मनोहरा
त्वमागच्छतु श्याम रासक्रीडायां श्याम (२)
रासक्रीडायै आगम्यताम्... (२)
त्वां विना श्याम् एकाकी भवामि...
रासक्रीडायै आगम्यताम्... (२)

संस्कृतमातुः सेवायाम् हो हो
भारतमातुः सेवायाम्
अस्मानुपकर्तुम् आशिषं दातुं (२)
आशिषं दातुम् आगम्यताम् |
 त्वां विना श्याम् एकाकी भवामि...
रासक्रीडायै आगम्यताम्... (२)
 - श्रीमिहिरः उपाध्यायः

पक्षिणो हे... पक्षिणः....
(राग ः पंखीडा ओ पंखीडा)

पक्षिणो हे... पक्षिणः... पक्षिणः हे... पक्षिणः
पक्षिणः उड्डीयन्तां पावागढं रे
महाकाल्यै कथयतु गरबा रमताम् रे ॥
हे... ग्रामस्वर्णकारबन्धोशीघ्रमागच्छ |
मम मात्रे सुन्दरं मञ्जीरमानय ॥
शोभनं मनोहरं च दिव्यमानय रे
महाकाल्यै कथयतु गरबा रमताम् रे ॥ १ ॥
हे... ग्राममणिकारबन्धो तूर्णमागच्छ
मम मात्रे सुन्दरं कङ्कणमानय रे
शोभनं मनोहरं च दिव्यमानय रे
महाकाल्यै कथयतु गरबा रमताम् रे ॥ २ ॥
हे... ग्रामवस्त्रकारबन्धो शीघ्रमागच्छ |
मम मात्रे शोभनम् अशुकम् आनय
शोभनं मनोहरं च दिव्यमानय रे
महाकाल्यै कथयतु गरबा रमताम् ॥ ३ ॥
- पंडित रामकिशोरः त्रिपाठी

No comments:

Post a Comment